________________
सर्गः - ७
२७५ न वाऽपि संवेशगतः प्रियेऽण्वपि, _ विरुद्धबुद्धिं त्वयि यामि जातुचित्' ।। १३६ ।। इति स्वपत्युर्वचनं निशम्य सा,
बहु प्रहर्षं लभते स्म मानसे । नृपस्य सा सप्तशती च योषितां,
तथैव जाता परमा प्रिया स्वतः२ ।। १३७ ।। कदाचिदानन्दभरेण मण्डनं,
करोति सङ्गीतमथाऽक्षखेलनम् । अनेककाव्याक्षरयोजना तथा',
नृपस्य मोदाय वधूजनस्तदा ।।१३८ ।। नटाधिराजाय महोपकारिता
मविस्मरंस्तस्य नृपो ददौ बहु । विभूषणं ग्रामशतं तथेतर,
यदिष्टमुच्चैर्गुणवर्गमुद्रिन्" ।। १३९ ।। व्यधापयच्चैत्यगृहाण्यनेकशः,
__ समुद्दधाराऽथ च जीर्णमन्दिरम् । ददौ च दानं बहुशोऽतिदुःखिने,
यशोभिराशा धवलीचकार सः ॥ १४० ।। १. 'गृहस्य सर्वं तव कार्यसञ्चयं, करेऽस्ति नूनं मम सर्वथा प्रिये ! । प्रधानभूताऽसि यदेव वाञ्छितं, भवेत् तवाऽहं प्रकरोमि तत् खलु ।।' इति पाठा० ।। २. 'नृपस्य ताः सप्तशती प्रिया अपि, तथैव जाताः परमाः प्रियाः स्वतः ।।' इति पाठा० ।। ३. '-नाशतं' इति पाठा० ।। ४. '-राजस्य' इति पाठा० ।। ५. '-श्चन्द्र-' इति पाठा० ।। ६. 'नटाय च' इति पाठा० ।। ७. 'प्रमोदमापच्च नटेश्वरस्तदा ।।' इति पाठा० ।।