________________
२७४
पयोऽम्बुनेवाऽथ झषोऽम्भसेव वा,
निजाङ्गनौघेन स सौहृदं व्यधात् ।
परस्परं सप्तशती च योषितां ",
विरोधमाधुर्नहि जातुचिद्धदा ।। १३१ ।।
देहेषु भिन्नेष्वपि राजयोषितः,
प्रीत्यैकचित्ता अभवन्न ताः पृथक् ।
अनन्यतुल्यं सुखमासु सन्नृपो'
चन्द्रराजचरित्रम्
ऽन्वभूत् स चन्द्रः सुरदुर्लभं तदा ।। १३२ ।।
गुणावलीं तासु नृपो व्यधात् प्रियां,
अमन्दमानन्दमवापुरञ्जसा,
अथैकदा चन्द्रनृपं गुणावली,
कृताञ्जलिः सानुनयं न्यवेदयत् । ' त्वया विना षोडशहायनीं प्रभो !,
स्वपट्टराज्ञीमवलोक्य ताः स्त्रियः ।
परोदये द्वेषमुपैति नोत्तमः ।। १३३ ।।
मयाऽन्वभाव्यद्भुतदुःखसन्ततिः ।। १३४ ।।
कृतं च यद् वीरमतीकुसङ्गतो,
विगर्हितं तत् क्षमतां प्रभो ! मम ।'
निशम्य तद्वाक्यमुवाच भूपति
'स्त्वमेव मत्प्रेममहास्पदं प्रिये ! ।। १३५ ।।
गृहं च राज्यं सकलं वशे तव,
करोमि चाऽहं च मतं यदेव ते ।
१. 'वधूजना' इति पाठा० ।। २. 'परं हि संख्यासु तथाऽस्ति कामिनी - मनस्सु, सैकैव बभूव नो पृथक् । अनन्यतुल्यं च सुखं स्त्रियां नृपो -' इति पाठा० ।। ३. 'प्रधान -' इति पाठा० ।। ४. 'परोन्नतौ विस्मयते न सज्जनः ।।' इति पाठा० ।।