________________
सर्गः
-
७
स्स्रवन्मदोद्दन्तंगजोपरिस्थितो,
ददौ भृशं दानमसौ प्रहर्षितः ।
न के तदा याचकभावमत्यजन्,
सुधां समास्वादयतः कुतो रुजा ।। १२६ ।।
इति प्रभूतोत्सवपूर्वकं तदा,
सभामगाच्चन्द्रनृपो जनाकुलाम् ।
नृपासनं शोभितवानिवोदया
ऽचलं रविर्दीप्तमहाः प्रजाप्रियः ।। १२७ ।।
ततः स सत्कृत्य सभासदो जनान्,
प्रधानवर्गं च विसृज्य भूपतिः ।
जगाम चाऽन्तःपुरमाशु सोत्सुकां",
वियोगदीनास्यगुणावलीं स्मरन् ।। १२८ ।।
ननाम सा स्नेहसमन्विता नृपं,
समालिलिङ्गाऽपि सतां गुणावलीम् । अनन्तरं सप्तशतीं स्वयोषितां
२७३
न्यवासयच्चारुतरे च सद्मनि ।। १२९ ।।
गुणावली तं परिभोज्य षड्रसं,
नृपं सपत्नीजनसन्ततेस्ततः ।
अतीवसत्कारमथाऽकरोन्न हि,
व्यधाच्च ́ सापत्यमसौ हृदि स्वके ।। १३० ।।
१. ' - न्मत्त - ' इति पाठा० ।। २. 'वित्तमसौ ' इति पाठा० ।। ३. 'सुधाकरे वर्षति किं रुजाव्यथा ।।' इति पाठा० ।। ४. 'नृपासनं शोभितवान् यथा रवि-रलङ्करोति प्रति नैषधाचलम् ।।' इति पाठा० ।। ५. 'प्रविसृज्य' इति पाठा० ।। ६. ‘तं नृपं' इति पाठा० ।। ७. 'गुणावली प्रेमपुरस्सरं प्रियम् ।।' इति पाठा० ।। ८. 'दधाति' इति पाठा० 11