________________
२७२
समं प्रजाभिर्निदिदेश तत्क्षणं,
'महोत्सवैराशु' समानय प्रियम्' ।। १२१ ॥
गुणावलीवाक्यमिदं निशम्य स,
जगाम मन्त्री जनवाद्यसङ्कुलः ।
उपेत्य तं भक्तिभरैः प्रणम्य चार
ऽवाप्तप्रहर्षोऽनयदाशु भूपतिम् ।। १२२ ।।
अनेकनारीनरसङ्कलं तदा,
नृपोऽपि मार्गं प्रययौ स सत्कृतः ५ ।
स्स्रवन्मदैर्दन्तिकुलैर्हयै रथैः,
चन्द्रराजचरित्रम्
सुसज्जितैश्चारुमपूर्वतोरणैः ६ ।। १२३ ।।
गवाक्षजाले समवस्थिताः स्त्रियो,
दिवश्चयुता देव्य इवाऽऽबभुस्तदा ।
विमानगा नेत्रनिमेषवर्जिताः,
नृपेक्षणे चित्रविभूषणोज्ज्वलाः ७ ।। १२४ ।।
जनाः समूचुर्नृप ! चातका इव,
वयं त्वदालोकननीरतर्षिताः ।
तदद्य तृप्ता घनमण्डलायितं,
भवन्तमालोक्य कृतार्थतां गताः ।। १२५ ।।
१. 'वाद्यकै:' इति पाठास्क ।। २. 'सह प्रधानेन -' इति पाठा० ।। ३. 'स' इति पाठा० ।। ४. 'महोत्सवैरानयदाशु' इति पाठा० ।। ५. ' - प्रविवेश सत्कृतः ' इति पाठा० ।। ६. 'स्रवन्मदा मत्तगजा हयास्तथा, नृपस्य पार्श्वेऽतितरां विरेजिरे । । ' इति पाठा० ।। ७. ‘नृपालसंदर्शनजातकौतुका, विचित्रभूषोज्ज्वलचारु-विग्रहाः ।।' इति पाठा० ।। ८. ' - लोकनभूरितर्षिता: । ' इति पाठा० ||