________________
२७०
चन्द्रराजचरित्रम् सद्यस्तदाऽहं विजहामि जीवितं,
भवेद् ध्रुवं स्त्रीवधपातकं तव' ॥११२ ।। निशम्य तद्वाक्यमसौ जगाद तां,
"सुशीलभङ्गे वनितावधात् परम् । न जायते दुष्कृतमित्यतो न हि,
- कदापि मन्येऽहमिदं वचस्तव ।।११३ ।। जानामि वृत्तं दशकण्ठरक्षस- .
... स्तथा च पद्मोत्तरभूपतेरहम् । दिवस्पतेर्गौतमयोषितं प्रति,
रतिर्विनाशाय बभूव सुन्दरि ! ॥ ११४ ॥ परस्य दारान् परिगृह्य कोऽपि नो,
___अवाप सौख्यं भुवने मनागपि । अतो वधात् ते न तथा बिभेम्यहं,
स्वशीलभङ्गादबले ! यथा भृशम्" ।।११५ ।। सुरोऽथ चन्द्रस्य निशम्य तद्वचो,
विहाय देव्याकृतिमित्युवाच तम् । 'अतीव धन्योऽसि सुशीलवानसि,
सुरेश्वरश्लाघ्यगुणोऽसि भूपते ! ।। ११६ ।।
१. 'कथं तदा क्षत्रियजातिरस्ति ते । पुरस्तवाऽहं ('पुरस्तदाऽहं' पाठा०) विजहामि जीवितं, भवेन्निदानं वधपातकस्य ते ।।' इति पाठा० ।। २. 'स्तथा च पद्मावनिपस्य कृत्स्नशः ।' इति पाठा० ।। ३. 'अतो वधात् ते न बिभेमि किन्त्वहं, स्वशीलभङ्गात् प्रबिभेमि साम्प्रतम् ।।' इति पाठा० ।।