________________
सर्गः - ७
२६९ यदि त्वदीयान्वयधर्मशीलता,
तदा प्रपन्नां नहि मां त्यजाऽधुना ।। १०७ ।। कलत्रभावो मयि संनिवेश्यतां',
. स्वपादसेवानिरता विधीयताम् । विपत्पयोधौ स्वकभाग्यदोषतो,
विलीयमाना भवताऽनुगृह्यताम्" ॥ १०८ ।। इति स्त्रिया वाक्यमसौ निशम्य तां',
जगाद चन्द्रो "वद नेदृशं पुनः । परस्य पत्नीं न कदाऽप्यहं भजे,
व्रतं ममेदं दृढमस्ति विद्धि तत् ।। १०९ ।। द्विकोऽथवा श्वैव विलेढि मोदतः,
परेण भुक्तं न च मानभृत् क्वचित् । कथं सुरम्याऽऽननतोऽतिदुर्वचं,
वचो ब्रवीषि प्रमदे ! प्रमुग्धवत् ।। ११० ॥ यदीच्छसि त्वं निजनाथसङ्गमं,.
तदा करिष्यामि तदर्थमुद्यमम् । स्वसः ! कदाचिन्न परस्त्रियं बुधा,
मुधाऽभिकाङ्क्षन्ति विगर्हितं हि तत्" ।। १११ ।। उवाच साऽथो 'यदि नो ग्रहीष्यसि,
विहाय लज्जां भृशमर्थनापराम् । १. 'संविधाय हि' इति पाठा० ।। २. '-निरतां विधेहि माम् ।' इति पाठा० ।। ३. 'न सज्जनो जातु जनस्य याचन-मनाथदीनस्य करोति निष्फलम् ।।' इति पाठा० ।। ४. 'हि' इति पाठा० ।। ५. ' व्रतं ममेदं परिविद्धि सुन्दरि ! ।।' इति पाठा० ।। ६. 'उच्छिष्टमन्यस्य परं न सज्जनः ।' इति पाठा०. ।। ७. 'तदर्थसाहसम्' इति पाठा० ।। ८. 'चन्द्रं' इति पाठा० ।।