________________
२६८
चन्द्रराजचरित्रम् न सजनो दीनजनस्य वेदना -
मवेत्य' तूष्णीं हि कदापि तिष्ठति ।। १०२ ॥ ततोऽमुनोपेत्य दृशाऽतिसुन्दरी,
शिरीषपुष्पोपमकोमलाङ्गिका । विभूषणौघाञ्चितचारुविग्रहा,
दिवश्चयुता विद्युदिव स्फुरत्प्रभा ।। १०३ ॥ 'कथं त्वमेवं विजने निशागमे,
प्ररोदिषि ब्रूहि च दुःखकारणम् । असंशयं त्वां परिमोचयाम्यहं,'
इतीव पृष्टा च जगौ मृदुस्वरम् ।। १०४ ।। शृणु त्वमेतद् वचनं "तनूभवा,
नृपाऽस्मि विद्याधरचक्रवर्तिनः । नहि प्रकाश्यं मम वृत्तमस्ति तत्,
तथाऽपि तेऽग्रे कथयामि भूपते ! ।। १०५ ॥ पतिर्मदीयोऽस्ति महारुषान्वितो,
वनेऽत्र मामद्य विहाय सोऽगमत् । न तादृशं कोऽपि करोतु यादृशं,
व्यधत्त रोषान्मम दुर्दशामसौ ।।१०६ ॥ निशम्य महुःखवचो भवानिह,
समागतो, मामुररीकुरु द्रुतम् । १. 'रोदनं' इति पाठा० ।। २. 'निशम्य' इति पाठा० ।। ३. 'शिखेव दीपस्य महोज्ज्वलैक्ष्यत ।' इति पाठा० ।। ४. 'ततोऽवदत् सा मधुरैः स्वरैरमुम् ।।' इति पाठा० ।।