________________
सर्गः
-
'स्वदारतोषी न हि चन्द्रवज्जनः १,
समस्ति लोकत्रितयेऽपि कोऽपि ।
सच्छीलधर्मात् कृकवाकुरूपतो,
मनुष्यरूपं यदवाप भूपतिः ।। ९८ ।।
न यत्नवानप्यमरोऽपि कोऽपि तत्
३'
सुशीलमालिन्यमुपाहितुं क्षमः ' ।
निशम्य वाचं नमुचिद्विषस्ततः,
सुरोऽथ कश्चित् प्रययौ परीक्षितुम् ।। ९९ ।।
समागतः ४ पोतननामकं पुरं,
विद्याधरीरूपमसौ प्रपन्नवान् ।
अनन्यतुल्याकृति घोरकानने, ५
गतेऽर्द्धरात्रे विललाप दुष्टधीः ।। १०० ॥
निशम्य तस्याः करुणस्वरं ततो,
व्यचिन्तयच्चन्द्रमहीपतिः किल ।
२६७
'निशागमे घोरतमस्ततौ कुतो,
मुहुश्च काssर्तस्वरमत्र रोदिति" ।। १०१ ।
इति स्वचित्ते परिचिन्त्य भूपतिः,
करेऽथ खड्गं प्रतिगृह्य चाऽचलत् ।
पाठा०
१. 'चन्द्र भूपभः' इति पाठा० ।। २. 'समस्ति कोऽपीह जगत्त्रयेऽधुना ।' इति ।। ३. 'न कोऽपि देवोऽपि सुशीलमस्य हि, भङ्क्तुं समर्थो भुवने कदाचन ।' इति पाठा० ।। ४. 'समागमत्' इति पाठा० ।। ५. 'अनन्यतुल्यं च . वपुर्महावने ' इति पाठा० ।। ६. ' धारयन्' इति पाठा० ।। ७. 'भृशं च का रोदिति . चार्तनादिनी ? ।।' इति पाठा० ।। ८. 'प्रकामं' इति पाठा० ||