SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २६६ चन्द्रराजचरित्रम् यशो जगौ तस्य जगद्विलक्षणं,' सुखं तदध्वानमलङ्घयन्नृपः ।। ९३ ॥ पथिस्थसामन्तनृपान् पदे पदे, समानमानीतबहूपदान् दृशा । प्रसन्नया प्रेक्षणतः कृतार्थयन्, क्रमेण सोऽगात् किल पोतनं पुरम् ॥ ९४ ॥ सरोवरं कञ्चिदुपेत्य तद्बलं, निवासमाधादधिपानुमोदितम् । तदैव लीलाधर एत्य च प्रिया-, मुदन्तमेतं कथयन्नमोदयत् ।। ९५ ॥ लीलावती साऽऽगमनं च मन्त्रिसू निशम्य चन्द्रस्य महाग्रहादरैः । समानयत् स्वं गृहमनमुत्सवात्, व्यधाच्च सत्कारमलं सभर्तृका' ॥ ९६ ॥ असौ च तस्यै भगिनीवदार्पय- . दनेकरत्नाञ्चितभूषणादिकम् । इतश्च नाके मघवा स्वसंसदि, चन्द्रं नितान्तं प्रशशंस भूपतिम् ॥ ९७ ॥ १. 'प्रदर्शयंश्चन्द्रनृपाय सन्ततम् । यशस्तदीयं प्रजगावहर्निशं, क्रमेण मार्ग समलङ्घयन्नृपः ।।' इति पाठा० ।। २. 'अनेकभूपान् पथि शिक्षयन्नत, उपायनं चन्द्रनृपोऽग्रहीद् बहु । भटाननेकान् नृपकन्यका अपि, विवाह्य चाऽऽगात् किल पोतनं पुरम् ।।' इति पाठा० ।। ३. 'मध्यावसच्चन्द्रनृपानुमोदितम् । तदैव लीलाधर एत्य पर्यटन, प्रियां समानन्दयति स्म सद्मनि ।।' इति पाठा० ।। ४. 'बहुप्रमोदतः।' इति पाठा० ।। ५. 'समानयत् स्वं गृहमस्य सत्कृति, व्यधात् स्वसेवातितरां सभर्तृका।।' इति पाठा० ।। ६. 'असावपि स्वं' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy