________________
२६५
सर्गः - ७ श्वश्रूस्तदा पुण्ड्रमथाऽस्य कौङ्कुमं,
चक्रे ललाटे किल चन्द्रभूपतेः ।। ८८ ।। सुचारु दूर्वाक्षतमाददे ततः,
करे समादाय फलं स चन्द्रः । तया समं मङ्गलतूर्यनिःस्वनै-,
श्चचाल चाऽऽभानगरं प्रसन्नहृत् ।। ८९ ।। चतुष्पथं तेन सहेत्य भूपतिः,
सनागरश्चन्द्रनृपं प्रतुष्टुवे । पुरस्त्रियो मङ्गलगीतिनिःस्वनं,
प्रचक्रिरे वाद्यमवादयन् परे ।। ९० ।। ततश्च चन्द्रं मकरध्वजो नृपो,
पुरस्सरं प्रीतिभरान्वितोऽनुयन् । जगाम शत्रुञ्जयमूलमाग्रहात्,
ननाम तीर्थोत्तममादराच्च सः५ ।। ९१ ।। विधाय यात्रां गिरिनायकस्य स,
आपृछ्य चन्द्रं तनयां च विह्वलः । वियोगतः स्वं पुरमेष भूपतिः६,
परावृतच्छ्रीमकरध्वजस्ततः ।। ९२ ।। नटाधिराजः पथि नाट्यकौशलं,
प्रदर्शयंश्चन्द्रमनोविनोदनम् ।
१. 'पुण्ड्रमथो हि' इति पाठा० ।। २. 'प्रति प्रभुः ।।' इति पाठा० ।। ३. 'प्रशंसति ।' इति पाठा० ।। ४. 'नरेश्वरं' इति पाठा० ।। ५. ' जगाम शत्रुञ्जयमूलमत्र सो-ऽनमन्महातीर्थमुदारभक्तिकः ।।' इति पाठा० ।। ६. 'ऽतिगाढमालिङ्गय नृपालनायकम् । अमुं, स्वकीयं पुर एष भूपतिः,' इति पाठा० ।।