________________
सर्गः
समर्थनायेव तदेतदञ्जसा,
-
७
,
शिवाशिवावेकशरीरतां गतौ ।। ७९ ।।
इति प्रकामं प्रविचार्य भूपति
अनेकदासीर्बहुवस्त्रभूषणं,
इतः समागात् स च चन्द्रभूपतिः,
महोत्तमं वाहनमुत्तमाः सखीः ।
सुगन्धि वस्तु प्रददौ स यौतुके ।। ८० ।।
प्रवेगमारुह्य हयं तदन्तिकम् ।
सुतां समुद्दिश्य जगाद तं नृपः,
सगद्गदं “ते तनयाऽर्प्यते मया ।। ८१ ।।
ममाऽऽत्मजेयं शिशुरस्ति तेन सा,
करोति कार्यं स्वमनोगतं सदा ।
अतस्तदीयो यदि जायते त्वयि,
२६३
कदाऽपि मन्तुः स न गण्यतां त्वया ॥ ८२ ॥
मनो मदीयं सहते न जातुचिद्,
वियोगदुःखं दुहितुस्तथापि सा ।
स्वभर्तृगेहं व्रजतीति मे महान्,
प्रमोद इत्येव विसृज्यते मया ।। ८३ ।।
मदीयराज्यं त तवैव निश्चित
मिति प्रतीहि त्वमपूर्वभाग्यभाक् ।
१. 'कदाऽपि माता तनयां न सूयतां सदैव सा भर्तृगृहस्य मङ्गलम् । विभावयत्याहितभर्तृरागतः, पितुर्विरागं विदधाति निश्चितम् ।।' इति पाठा० ।। २. 'महीपतिः ।।' इति पाठा० ।। ३. 'हि' इति पाठा० ।। ४. 'प्रधानमारुह्य हयं च तत्सभाम् ।' इति पाठा० ।। ५. ' -ऽधुना स्वकीया तनयाऽर्प्यते हि ते ।।' इति पाठा० ।। ६. ' - हि मर्ष्यतां -' इति पाठा० ।
"