________________
२६२
चन्द्रराजचरित्रम् इहैव तस्माद् वस यावदावयोः,
गुणोज्वलां त्वां नयनस्य तारकाम् । व्रजन्तु कालास्तनयेऽनुपश्यतोः,
सुखं सदाऽन्ते वयसि प्रतिष्ठयोः' ।। ७५ ॥ जगाद 'कान्तिपुरेव सैत्यनु,
न जातु दृष्टा क्वचनाऽपि ते पृथक् । विशेषतः प्रोक्तमथो सुतास्थिति
गृहे स्वभर्तुस्त्रिदिवौकसां पुन:' ।। ७६ ॥ पुनर्न मोहं विदधामि, न प्रियं,
त्यजामि पूर्वानुभवात् सचेतना' । निशम्य तन्नैजसुतावचस्तदा,
विचारयमासतुराशु दम्पती ।। ७७ ॥ 'धनं सुता स्यात् परकीयमित्यदः,
सुनिश्चितं, सा न पितुर्गुहे क्वचित् । वसेत् समृद्धेऽपि कदापि नो रसात्,
न मन्यते तत्स्वमियं यतः किल ।। ७८ ॥ विचारिते तच्च विभाति युक्तिमत्,
स्वभर्तुरर्धाङ्गसमा हि सा स्मृता ।
१. 'अये बहु व्याहतमद्य ते पति-र्न मन्यतेऽसौ गमनाय तत्परः । तवाऽस्ति किं सम्प्रति हृद्गतं वद, व्रजिष्यसि स्थास्यसि वाऽत्र पुत्रिके ! ।।' इति पाठा० ।। २. 'जगाद सा तिष्ठति यत्र विग्रह-श्छायाऽपि तस्यानुसमेति तत्र हि । इति प्रमाणेन पितः ! सदा निज-प्रियानुगा स्यामहमप्यदीनहत् ।।' इति पाठा० ।। ३. 'त्यजामि तात ! क्वचिदप्यहं प्रभो ! ।' इति पाठा० ।। ४. 'धनं हि कन्या' इति पाठा० । ५. 'कदाऽपि रक्ता भवति प्रकामतः, पत्युहे शून्यतरेऽपि रज्यते ।।' इति पाठा०।।