________________
सर्गः - ७
२६१ भवेत् त्वदाज्ञा यदि, तत्र साम्प्रतं,
व्रजाम्यनिच्छन्नपि वः प्रियत्वतः' । निशम्य चन्द्रस्य वचो महीपतिः,
शुचाकुलः साश्रुविलोचनोऽभवत् ।। ७० ॥ उवाच धैर्याद् 'यदिहैव सर्वदा,
वसेद् भवांश्चेत् सकलाः प्रजास्तदा । ध्रुवं च तद्राज्यमरिप्रहारतो,
विनाशमेष्यन्ति सुपालकं विना ॥ ७१ ।। अतो गतिं ते खलु नाऽस्मि शक्तिमान्,
निरोद्धमप्यल्पमहं विचारयन्' । निगद्य चैवं मकरध्वजो नृपो,
बलादि सज्जं गमनाय चाऽकरोत् ।। ७२ ॥ ततः स चन्द्रो नृपतिः सुसजितं,
बलं जगौ 'याहि शनैः शनैः पुरः । "सभाजयित्वेष्टजनानहं पुनः,
पुरं प्रतिष्ठेऽचिरमेव सोत्सुक:५' ॥७३ ।। इतः स्वपुत्रीं मकरध्वजो नृपो,
जगाद सुस्नेहनिरुद्धकण्ठकः । 'ममाऽथवा मातुरसि त्वमेकिका
ऽवलम्बभूतेति तिरोहितं न ते ।। ७४ ।। १. 'व्रजामि भुक्त्वा सुखमत्र पुष्कलम् ।' इति पाठा० ।। २. 'प्रमत्तमातङ्गवरं यथा न हि, वशं विधातुं प्रभवेज्जनः क्वचित् । तथा मम त्वं वशगोऽसि भूपते !, न . राज्यसाम्राज्यविभूषणादिभिः ।।' इति पाठा० ।। ३. 'ततो व्रज' इति पाठा० ।। ४. 'सत्कारयित्वा' इति टि० ।। ५.'-बलाद्युपेतं निजगाद तत्प्रति (बलं समासाद्य जगाद तत्प्रति-पाठा०) । चलाधुना त्वं मयका निजं पुरं, निशम्य तद् गन्तुमभूत् समुत्सुकम् ।।' इति पाठा० ।। ६. '-समाह्वयत् स्वस्य पुरः सदारकः । उवाच हे पुत्रि ! समस्तसगुणा-ऽऽकरोऽसि मत्प्रेमधनस्य वल्लरी ।।' इति पाठा० ।।