________________
२६०
चन्द्रराजचरित्रम् पुरी च सा बाल्यत एव सेविता,
भवेच्च शून्येव महादिवर्जिता' ॥ ६५ ॥ समीक्ष्य किञ्चिद् विमनस्कमाशु तं,
पतिं जगाद क्षितिपेश्वरात्मजा । 'कथं त्वदीयाननमद्य वल्लभ !,
प्रभातचन्द्रप्रतिमं विलोक्यते ॥ ६६ ॥ स्वजन्मभूमिः स्मृतिमेति किं तव ?,
गुणावली वा स्मृतिमार्गमागता ? । अथाऽस्तु तामानय वल्लभ ! स्वसुः,
सुखं तयैष्यामि यतोऽहमीहितम् ॥ ६७ ॥ जगाद चन्द्रो 'मम राज्यमस्ति यद्,
विना नृपं तत्सकलाः प्रजाः प्रिये ! । समागमाय प्रददुर्दलं ततो,
व्रजाम्यहं निश्चितमेव शीघ्रतः५' ।। ६८ ॥ इति प्रियां चन्द्रनृपो निगद्य तां,
पुरो जगाम श्वशुरस्य तत्क्षणम् । उवाच चाऽऽभानगरात् प्रजा मम,
दलं ददुस्तत्र समागमाय ता: ।। ६९ ॥ १. 'अतोऽद्य गन्तुं घटते ममाऽपि हि, न राजते सा नगरी च मद्विना । तया समं मे शिशुभावतोऽधिकं, समस्ति सौहार्दमतोऽद्य याम्यहम् ।।' इति पाठा० ।। २. 'अथास्तु तामानय वल्लभाधुना-ऽप्यहं भविष्यामि हि तद्वशंवदा ।।' इति पाठा० ।। ३. 'हि' इति पाठा० ।। ४. 'मम ।' इति पाठा० ।। ५. 'वल्लभे !' इति पाठा० ।। ६. 'तत्क्षणे ।' इति पाठा० ।। ७. 'हि ।।' इति पाठा० ।।