________________
सर्गः
निशम्य तत्कीरवचो गुणावली,
-
७
'पतिः प्रवासी चिरतोऽस्ति दुर्विधेः ।
वियोगसन्तापमवापिता भृशं',
जगाद सा गद्गदभाषयाऽस्म्यहम् ।। ६१ ।।
उवाच कीरो 'लिख पत्रमाशु मे,
प्रदेहि गच्छामि यतः पतिस्तव' ।
गुणावलीदत्तमथो दलं शुको,
ललौ ययौ साश्रुदृगञ्जनाञ्चितम् ।। ६२ ।।
क्षणैः कियद्भिर्विहगो ययौ सक
श्चलत्पतत्रो विमलापुरं रयात् ।
दलं च तेनाऽर्पितमाशु सोत्सुकः,
पपाठ चन्द्रोऽश्रुजलाविलाक्षरम् ।। ६३ ॥
'वियोगतापानलतप्तमानसा,
२५९
लिलेख बाष्पाकुललोचना दलम् । धिगस्तु मां योऽसमहार्दहारिणीं
गुणावलीं प्राणसमामुपैक्षत ।। ६४ ।।
इतोऽथ गन्तुं घटते ममाऽचिरात्,
प्रजा भवेयुश्च मया विनाऽऽकुलाः ।
१. '- जगाद मे प्राणपतिः प्रवासभाक् । समस्ति, तस्याऽस्मि वियोगतोऽधिकं, शुकाधुना दुःखशतेन पीडिता ।।' इति पाठा० ।। २. 'जगाद कीरः प्रविलिख्य मे दलं, प्रदेहि, दास्यामि च वल्लभाय ते । गुणावली द्राक् प्रविलिख्य शोभनं, ददौ दलं साऽश्रुककज्जलाङ्कितम् ।।' इति पाठा० ।। ३. 'शुकः समुड्डीय यौ क्षणादसौ, गृहीतपत्रो विमलापुरं प्रति । ददौ स चन्द्राय दलं पपाठ तन्न चाबुधद् बाष्पजलाक्षरेण सः ।।' इति पाठा० ।। ४. 'वियोगतोऽसौ न सुचारुलेखकं, लिलेख बाष्पाकुललोचना प्रिया । मया विना सा भृशमस्ति दुःखिता, गुणावली प्राणसमाऽधुना मम ।।' इति पाठा० ।