________________
२५८
चन्द्रराजचरित्रम् समागता नूतनवल्लभाऽधिका,
जनो नवोत्कः किल कामशासने' ।। ५७ ।। नृपाङ्गजा सा हृदयप्रियाऽभवत्,
ततो विसस्मार नु मां मम प्रियः ? । स्मृताऽथवा तनिशि मत्कृतिर्यतः
समागतोऽद्याऽपि विरज्य नो सकः२ ?' ।।५८ ।। वितर्कयन्तीति विषण्णमानसा,
रुरोद हृद्भेदमसौ गुणावली । उवाह धैर्यात्मकसेतुभङ्गतो,
दृशोऽश्रुपूरः क्षितिमार्द्रयन् जवात् ।। ५९ ॥ इतः समागादिह कोऽपि पक्षिराट्,
शुको जगाद क्षितिपाङ्गनां च ताम् । 'कुतोऽसि दुःखैकधनाऽधुना किल,
वदेप्सितं तद् विदधामि ते ध्रुवम् ॥ ६० ॥
१. 'यदा नवीना परिलभ्यते तदा-ऽधिका मनःप्रीतिकरी ततोऽपि च ।।' इति पाठा० ।। इतोऽग्रे- 'यथैव लोकः परिपूर्णचन्द्रिकां, न लोकते, किन्तु नवीनचन्द्रिकाम्। तथैव मां पश्यति नैव मत्प्रियो-ऽनुरागतः किन्तु नवां स प्रेमलाम् ।।' इति निष्कासितः श्लोको दृश्यते ।। २. '-न्नाऽहं, कुतो मां स्मरतीह न प्रियः ? । किं मेऽस्य दुश्चेष्टितमागतं स्मृता-वेवं वितर्कं व्यतनोद् गुणावली ।।' इति पाठा० ।। ३. 'निरन्तरं साऽश्रुजलार्द्र[क्त]शाटिका, निशं व्यतीयाय पतिं विना तदा । मनोजबाणव्यथितान्तरा सती, प्रचण्ड-मार्तण्डितशीतरश्मिका ।।' इति पाठा० ।। इतोऽग्रे- 'पतिं विना मे न हि भेषजं परं, भवेन्ममैतद्विरहाग्निशामकम् । तदीयसौहार्दविधायिनी हि मां, धिक्, तस्य मत्प्रेमलवोऽपि नेक्ष्यते ।।' इति निष्कासितः श्लोको दृश्यते ।। ४. 'ततः ।' इति पाठा० ।।