________________
सर्गः - ७
२५७
विलिख्य पत्रं विमलापुरं प्रति,
व्यमोचि दूतो नगरीजनैर्निजः । ततो जगामाऽतिजवान्वितः सको',
दिवानिशं स्वप्रभुदर्शनोत्सुकः ॥ ५३ ॥ गुणावली स्वप्रियदर्शनामृतं',
पिपासुरत्यन्तसमुत्कमानसा । व्यचिन्तयत् "को जन ईगस्ति यो,
विदेशगं प्राणपतिं समानयेत् ।। ५४ ।। नवं नवं सौख्यमसौ निरन्तरं,
प्रियोऽथ भुङ्क्ते नृपकन्यया मम । इतः स आगत्य यथा सदा मुदा',
दिनं नयेत् कर्तुमिदं क ईश्वरः६ ? ।। ५५ ।। नृपाङ्गजा सा भगिनी मम प्रिया,
व्यधान्मनुष्यं खगतो नृपं यतः । इदं तु जातं न समञ्जसं तया,
मम प्रियो यद्विदधे निजप्रियः ।। ५६ ।। वदन्ति लोकाः प्रथमं विवाहिता,
प्रिया भवत्यत्र गदन्ति केचन ।
१. 'इतः समागन्तुमसौ चचाल ह' इति पाठा० ।। २. 'गुणावली नाथसमागमामृतं' इति पाठा० ।। ३. 'स्नेह-' इति पाठा० ।। ४. 'भुङ्क्ते समं भूपतिकन्यया प्रियः।' इति पाठा० ।। ५. 'निरन्तरं' इति पाठा० ।। ६. 'दिनं नयेत् कश्चरितुं प्रभुस्तथा ? ।।' इति पाठा० ।। ७. '-व्यधान्मनुष्यं मम वल्लभं हि या । परन्तु सा प्रविलोभ्य सत्पति, ध्रुवं सपत्नी समभून्नृपात्मजा ।।' इति पाठा० ।।