________________
सर्गः
1
७
स्मरामि किं देवमिह, प्रकामतो,
विधीयतां यत्करणीयमस्ति ते ' ।
निशम्य तद्वाचमसावसिं शितं,
ग्रहोद्गृहीतेव समाददे रयात् ।। ४४ ।।
तयाऽथ चन्द्रे प्रहृतोऽप्यसिर्जवात्,
निवृत्य तद्वक्षसि चित्रमापतत् ।
हता निजस्यैव विगीतकर्मणा,
पपात रक्तोद्वमनं प्रकुर्वती ।। ४५ ।।
शुभाशुभं यत्क्रियते नृजन्मना,
फलं भुनक्तीह स एव निश्चितम् ।
मृता गता वीरमतीह दुर्गतिं,
ननन्द चन्द्रो भुवि गीतसद्यशाः ३ ।। ४६ ॥
तदैव चन्द्रोपरि पुष्पवर्षणं,
चकार देवो जयशब्दपूर्वकम् ।
२५५
स्वशल्यघातेन निराकुलश्च सो
ऽगमन्महैर्द्राग् विमलापुरं प्रति ।। ४७ ।।
निशम्य तच्छ्रीमकरध्वजो नृपो,
मुदं समेतो विदधौ सुमङ्गलम्' ।
१. ' इति प्रगल्भं प्रणिशम्य तद्वचो, रोषारुणाक्षी शितखड्गमाददे ।।' इति पाठा० ।। २. 'प्रहारमस्योपरि संव्यधादसि - र्निवृत्य तद्वक्षसि सद्य आपतत् । असिप्रहारं परिलभ्य सा क्षितौ, पपात रक्तोद्वमनं प्रकुर्वती ।।' इति पाठा० ।। ३. 'नृपोऽपि केशेषु लघु प्रगृह्य ता-मपातयद् ग्रावणि दुष्टचारिणीम् । अवाप्य मृत्युं नरके जगाम सा, क्षितौ च षष्ट्यां निजकर्मयन्त्रिता ।।' इति पाठा० ।। ४. 'स्वजन्मशल्यं प्रणिहत्य सोऽगम-न्महोत्सवाढ्यो विमलापुरं प्रति ।।' इति पाठा० ।। ५. 'मुदं समेत्य प्रचकार मङ्गलम् ।' इति पाठा० ॥