________________
२५४
तदैव राजा पवनातिगं हयं,
सुसज्य वर्मावृत आरुरोह सः ।
सुतीक्ष्ण खड्गं च कटीतटे न्यधात्,
ययौ विमातुश्च फलाय दुष्कृतेः १ ।। ३९ ।।
सहस्रसङ्ख्यं च बलं पुरो नृपो,
२
विधाय सोऽगान्मृगयामिषात् सुधीः । समेति यावद्गहनं किमप्यथोर,
चन्द्रराजचरित्रम्
ददर्श तावद् गगने विमातरम् ॥ ४० ॥
क्रुधारुणाक्षी स्फुरदोष्ठपल्लवा,
प्रसूश्च चन्द्रं शममाश्रितं तदा ।
समागतं तं परुषाक्षरैः कुधीः ४,
जगाद 'रे ! त्वां श्वशुरोऽपि मे पुरः ।। ४१ ।।
समाव्रजन्तं किमु न न्यवारयत् ?,
स्वयं च किं विस्मृतवान् निजं वपुः ? । स्मर स्वदेवं त्वमिहाद्य मामक
क्रुदुज्ज्वलद्वह्निशिखाहुतीभवन्' ।। ४२ ।। युग्मम्
निशम्य चाऽसावविवेककल्पितं,
वचो विमातुर्विनयाञ्जगाद ताम् ।
'क्षमस्व, नाऽद्यापि तवेप्सितं मया,
ऽन्यथाकृतं वेत्सि कुतोऽथ मां रिपुम् ।। ४३ ।
१. 'चचाल जेतुं चपलं विमातरम् ।।' इति पाठा० ।। २. 'छलेन हि ।' इति पाठा० ।। ३. 'जगाम दूरं बहुसुन्दरं वनं' इति पाठा० ।। ४. 'क्रोधेन सा बह्निशिखेन दीपिता, चन्द्रः सुधाधामवदास्त मातरि । समागतं वीरमती विलोक्य तं' इति पाठा० ।। ५. 'निशम्य मातुः परुषाक्षरं वचो, जगाद चन्द्रो विनयेन मातरम् ।' इति पाठा० ।। ६. 'ऽन्यथाकृतं वेत्सि च मां रिपुं सदा ।।' इति
पाठा० ।।