________________
सर्गः
-
७
'स्वकार्यमाधातुमये ! यदीहसे,
न रोद्धुमीशे यदहं तवाऽनुगः ।
अतो यथेच्छं कुरु शान्तितो मया,
तव प्रभावादिह वत्स्यतेऽधिपे ]' ।। ३४ ।।
इति प्रधानस्य वचो निशम्य सा,
तदैव देवान् स्मरति स्म दुर्मतेः २ ।
करेऽतितीक्ष्णं करवालमाददे,
चचाल तैः सार्द्धमथो विहायसा ।। ३५ ।।
न लोकते दैवहतो जनो निजं,
परं न कर्णे कुरुते हितं वचः ।
न जानती चन्द्रबलं क्रुधाकुला,
स्म मन्यते तं हतमेव मानिनी ।। ३६ ।।
न वेत्ति सा वीरमती यथा, तथा,
जगाम काचित् किल देवता ततः । 'रहो विमाता तव चन्द्रभूपते !,
२५३
समेति, सज्जो भव' सा जगाद तम् ।। ३७ ।।
'तवोग्रपुण्यान्न च सा पराभव',
विधातुमीशाऽस्ति तथाऽपि सज्जितः ।
भवे 'ति देवस्य निशम्य सद्वचो,
जहर्ष चन्द्रो न हि भीर्महात्मनाम् ।। ३८ ।।
4
4
१. 'प्रभो ! ।।' इति पाठा० ।। २. तदैव देवान् पुनराचकर्ष ह ।' इति पाठा० ।। ३. सार्द्धमसौ' इति पाठा० ।। ४. 'बलं' इति पाठा० ।। ५. 'तवाऽस्ति पुण्यं न हि च (सा- पाठा० ) पराजयं' इति पाठा० ।। ६. 'निषीद, रीत्वेति सुरस्य सद्वचो' इति पाठा० ||