SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २५२ चन्द्रराजचरित्रम् निशम्य तस्या वचनं च देवता, जगाद 'चन्द्रस्य नृपस्य को भवेत् । प्रभुर्विनाशे किल सूर्यकुण्डतो, नरत्वमाप्तस्य महोग्रपुण्यतः ॥ २९ ॥ अहं समर्थोऽस्मि न तस्य भूपते न वा समर्था त्वमपीह सम्प्रति । उपद्रवं कर्तुममुं हि, सर्वदा, सुरो बली रक्षति मर्त्यदेहिनम् ।। ३० ॥ स्वकार्यमन्यद् वद तत्क्षणादहं, करोम्यभीष्टं न च संशयो मनाक् । कुरुष्व चन्द्रं स्वसुतोचितं पुन निरस्य दुर्बुद्धिमरं महीपतिम्' ।। ३१ ॥ निशम्य देवस्य वचः क्रुधाकुला, न किञ्चिदस्मै पुनरप्युवाच सा । न चैव तद्वाचमुपाददे सका, जगाम देवो निजमन्दिरं ततः ।। ३२ ॥ तदैव साऽऽनाय्य सुबुद्धिमन्त्रिणं, जगाद 'यामो विमलापुरं प्रति । प्रजासु शान्तिं परिवर्तयाऽत्र च, स्थितस्त्वमेतद् विनिशम्य सो जगौ ॥ ३३ ॥ १. 'प्रबलमामलदेहकत्वतः ।।' इति, 'प्रलब्धसन्मानुषजन्मनो जनः ।।' इति च पाठा० ।। २. 'विधाय तेऽभिष्टमहं ददेऽधुना । कुरुष्व चन्द्रेण समं हि ('च' इति पाठा०) सङ्गतं, विमुच्य वैरं कुरु तं महीपतिम् ।।' इति पाठा० ।। ३. '-ऽथ सा' इति पाठा० ।। ४. 'वयं, त्वमत्रैव च शान्तिपूर्वकं, निषीद, रीत्वेति जगाद सोऽप्यथ ।।' इति पाठा० ।।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy