________________
२५१
सर्गः - ७ करोतु वैरं न मया समं पुन
र्यदीहते जीवितमात्मनस्तदा । व्रजामि वाऽहं स्वयमेव तत्पुरं,
विहीनबुद्धिं परिशिक्षयेऽचिरात् ॥ २४ ॥ ततोऽहमेष्याम्यचिरात् तवाऽन्तिकं",
निशम्य तत् सा निजगाद साध्वसात् । "वचो न युक्तं तव मातरीदृशं',
खगोऽभवद् यः स कथं नरो भवेत् ॥ २५ ।। जगत्यसौ कः प्रभुरस्ति पूरुषो,
विना त्वदीहां रचयेत कं नरम् ? । उदन्तमेतं खलु कोऽपि दुर्जनो,
मुधाऽतनोत् किन्तु न सोऽस्ति वस्तुतः ॥ २६ ॥ कथं नटो वा विमलापुरं व्रजेत्,
सुदूरमज्ञातमितोऽस्ति तन्मृषा । न चाऽम्ब ! जानेऽधिकमित्यतोऽप्यहं,
कुरुष्व कार्यं सुविचार्य नो हठात्" ।। २७ ॥ इतीरयित्वा भवनं स्वकं यया
वुपास्त सा वीरमती स्वदेवताम् । समक्षभूतां प्रविलोक्य देवतां,
उवाच' 'चन्द्रस्य विनाशनं कुरु:६' ॥ २८ ॥
१. 'समागमिष्यामि, पुनस्त्वमत्र हि, निषीद रीत्वेति (' श्रुत्वा' इति टि०) ।। जगाद साऽपि ताम् । मातर्न युक्तं वचनं तवेदृशं,' इति पाठा० ।। २. 'नरीकरो योऽत्र तवेप्सितं विना ।' इति पाठा० ।। ३. 'सुदूरमत्यन्तमसम्भवं हि तत् ।' इति पाठा० ।। ४. 'प्रविचार्य' इति पाठा० ।। ५. 'जगाद' इति पाठा० ।।, 'ययाचे इत्यर्थः' इति टि० ।। ६. 'ततः' इति पाठा० ।।