________________
द्रुत प्रतीक
२५०
चन्द्रराजचरित्रम् इहाऽऽयियासत्यपि सोऽथ यन्मया,
न मारितस्तद् विहितं न मञ्जुलम् । ततोऽद्य गत्वा विमलापुरीं प्रति,
द्रुतं प्रतीकारविधिं क्रियां स्वयम् ॥ १९ ॥ यथा स नाऽऽभानगरं समाव्रजेत्,
तथा विधास्यामि निजोग्रपाटवात् । विशिष्टसामर्थ्यवतामपीह यद्,
___ न वर्धमानोऽरिरुपेक्षितुं क्षमः' ॥ २० ॥ तदैव साऽऽनाय्य गुणावली वधूं,
जगाद "चन्द्रो नररूपमाप्तवान् । इहाऽप्यसौ दुर्मतिरेतुमिच्छति,
गतोऽस्य नाऽद्यावधि चेतसो मदः ॥ २१ ॥ मनुष्यरूपं प्रतिलभ्य मामकः,
प्रभावलेशः किल तेन विस्मृतः । तृणाय मन्ये यमहं न जातुचि
न्मया विरोधं स विधातुमिच्छति ।। २२ ॥ न चाऽऽयतिस्तस्य शुभा विलोक्यते,
भवेदिदानी खलु जीवसंशयः । तदीयवृत्तं परिवेत्सि चेत् तदा,
वदाऽऽशु पत्रं लिख मद्वचोऽन्वितम् ।। २३ ॥ १. 'मङ्गलम् ।' इति पाठा० ।। २. 'इतोऽथ' इति पाठा० ।। ३. 'तदीयगर्व परिखण्डयाम्यहम् ।।' इति पाठा० ।। ४. 'तथा विधास्यामि तथाकृते निजम् । पराक्रमं साधुतरं विभावये,' इति पाठा० ।। ५. 'मनुष्यरूपं प्रतिलब्धवानसौ, विराजते किं नु पराक्रमाधिकः ? ।' इति पाठा० ।।