________________
२४९
सर्गः - ७ अमन्दमानन्दमवाप तत्क्षणे,
मुदश्रुभिर्भूमितलं सिषेच च ॥ १४ ॥ जगाद दूतो नृपवाचिकं तदा
ऽथ तां, निशम्याऽऽह गुणावली ततः । 'प्रकाशनीयं पुरतो न कस्यचित्,
त्वयेति वृत्तं भ्रमतोऽपि कर्हिचित् ।। १५ ।। विधाय तस्याऽप्रतिमां च सत्कृति,
ददौ पुरस्कारपुरस्सरं दलम् । ययौ स दूतो मुदितस्ततो द्रुतं,
निवृत्य धीमान् विमलापुरं प्रति' ।। १६ ।। सुगुप्तमप्येतमुदन्तमञ्जसा,
परम्परातो जनता व्यबुध्यत । प्रतीक्षमाणा च नृपागतं घना
गमं लतेवाऽऽस नितान्ततापिता ।। १७ ।। निशम्य तद्वत्तमिवाऽऽकुला भृशं,
बभूव सा वीरमती भिया द्रुतम् । निजे हृदि ध्यातवती च कुक्कुटः,
'कथं वपुः सोऽद्य गतो नृजन्मनः ।। १८ ।।
१. 'भ्रमात्' इति टि० ।। २. 'विलिख्य पत्रं प्रददौ गुणावली, विधाय तस्याऽतिशयां हि सत्कृतिम् । ययौ स दूतः प्रतिलब्धसत्कृतिः, प्रमोदतस्तद्विमलापुरं प्रति ।।' इति पाठा० ।। ३. 'गृहे गृहे चन्द्रनृपस्य सा कथा, बभूव राजा नररूपवानिति । भवेद् यदा पौरजनस्य शोभनो, भाग्योदयस्तर्हि स आगतो भवेत् ।।' इति पाठा० ।। ४. 'अदो वचो वीरमतीश्रुतिं यदैत्, तदाऽभवत् सा क्षुधितेव पन्नगी । दध्यौ च यं ताम्रशिखं व्यधामहं' इति पाठा० ।।