________________
२४८
चन्द्रराजचरित्रम् न चातकी जातु दिवानिशं यतः,
प्रयोजिता स्निह्यति दूरवारिदे ? ॥९॥ विकासिमल्लीमधुलालसः किं,
मधुव्रतोऽन्यत्र मनो नियच्छति' ? । अतः प्रिये ! शीघ्रतरं तवाऽन्तिके,
समागमिष्यामि न संशयं कुरु" ।।१० ॥ मदुक्तमेवं कथयेस्तिरोहितो,
व्रजाऽविलम्बेन 'शिवं तवाऽस्त्वि'ति । नियोजितो राजवरेण तेन सो,
गतस्तदाऽऽभानगरं कियद्दिनैः ।। ११ ॥ 'इयं किमास्ते नगरी सुरेशितुः,
पुरी कुबेरस्य महाप्रभा किमु ? ।' इति प्रकामं परिचिन्तयन् ययौ,
स मन्त्रिणो धाम सुगुप्तभावतः ।। १२ ॥ स मन्त्रिणे पत्रमदात् प्रपद्य त
नितान्तहर्षं परिलभ्य तत्क्षणम् । ययौ स तेनैव गुणावलीपुरो,
न्यदर्शयच्चन्द्रनृपस्य तद्दलम् ॥ १३ ।। गुणावली पत्रमदः प्रपठ्य सा,
नृदेहलाभं स्वपतेरवाऽगमत् । १. '-स्नेहं त्वया धार्यमनन्यचेतसा । न वीरमत्या वचनेन केवलं, त्वं विस्मृति मे कुरु जातु सुन्दरि ! ।।' इति पाठा० ।। २. 'स्वजन्मभूमेर्हि यथा शमीद्रुमः, प्रियस्तथाऽन्यत्र न मालतीलता ।' इति पाठा० ।। ३. 'इति प्रभूतं नृपतिः समादिशच्चरोऽथ सोऽपि प्रचचाल तत्पुरम् । आवाप्य चाऽऽभानगरं चिरादसौ, विलोक्य तद् विस्मयमाप तत्क्षणे ।।' इति पाठा० ।। ४. 'तत्क्षणे' इति पाठा० ।।