________________
सर्गः ७
करोति या प्रेम निरर्गलं मयि,
प्रियस्य तस्या विधिरेव निष्क्रयः " ।। ४ ।।
१
सुप्तोत्थितः प्रातरथो महीपति
लिलेख पत्रं च गुणावलीं प्रति ।
दूताय दत्त्वा न्यगदत् तदा रहः,
44
" प्रदेयमेतन्न गुणावलीमृते ।। ५ ।।
कस्मैचिदाख्येयमिदं वचस्त्वया,
न वीरमत्याः सविधे विशेषतः । प्रकाशितस्त्वं न भवेः कदाचन,
विधेयमेतन्निभृतं त्वया सखे ! ।। ६ ।।
सन्मङ्गलं प्रक्ष्यसि कोमलोक्तिभिः,
सन्तोषमुल्लिख्य च मां प्रदास्यसि । शुचं त्यज द्वापरमत्र नो कुरु५,
झटित्यसौ ते मिलितेति वक्ष्यसि ।। ७ ।
प्रभावतस्तीर्थवरस्य मानवं,
२४७
वर्मा प्राप्तमहो सुदुर्लभम् ।
उपेत्य तत्राऽहमसंशयं धरा
भरं खिलीकृत्य खलं भरिष्ये ।। ८ ।।
सदा मदीयो निजमानसे प्रिये !,
स्नेहस्त्वया धार्य इतीह किं ब्रुवे ? |
१. ‘तस्याः प्रियं हा न कथं करोम्यहम् ।।' इति पाठा० ।। २. 'प्रातरसौ' इति पाठा० ।। ३. 'हि' इति पाठा० ।। ४. 'पत्रं प्रदेयं हि गुणावलीकरे ।।' इति पाठा० ।। ५. 'सन्तोषमस्यै बहु मे बिन्धनम् । प्रदास्यसे, तिष्ठ सुखेन सुन्दरि ! ' इति पाठा० ।। ६. ‘आगत्य तत्राहमसंशयं प्रिये !, राज्यं करिष्ये रिपुनाशपूर्वकम् ।।' इति पाठा० ।। ७. 'मदीयं' इति पाठा० ।।