________________
शासनसम्राटपूज्याचार्यश्रीविजयनेमिसूरीश्वरपट्टधरपूज्याचार्यश्रीविजयविज्ञानसूरीश्वरपट्टधरप्राकृतविशारदपूज्याचार्यश्रीविजयश्रीकस्तूरसूरिप्रणीतं चन्द्रचरित्रे सप्तमः सर्गः
(वंशस्थवृत्तम्) अथैकदा तस्य गुणावली निशि',
स्मृताऽभवत् तल्पमधिश्रितस्य । विचारयामास तदा महीपतिः,
प्रियां स्वकीयां बहुदुःखसाक्षिणीम् ॥१॥ "सुखेन कालं विमलापुरेऽनिशं,
श्रीप्रेमलायाः सविधे नयाम्यहम् । न वेद्मि किञ्चिद् हृदयप्रिया कथं,
विना मया सा समया करोत्यहः ॥२॥ प्रतिश्रुतं यत्पुरतस्ततो मया,
प्रिये ! नृरूपं परिलभ्य सत्वरम् । समागमिष्यामि न जातु विस्मृता,
भवेस्तदेतत् परिहीयतेऽधुना ॥ ३ ॥ व्रजामि तस्याः पुरतोऽधुनाऽप्यहं,
तदा भवेत् तद्वचसः कृतार्थता ।
१. 'प्रिया' इति पाठा० ।। २. 'समागमच्चेतसि रम्यरात्रिषु ।' इति पाठा० ।। ३. 'सा मे' इति पाठा० ।। ४. 'विना मया यापयते नु वासरम् ? ।।' इति पाठा० ।। ५. 'अगादिषं सुन्दरि ! ते पुरः पुरा, यदा नृरूपं परिलप्स्यते मया। तदाऽऽगमिष्यामि पृथग् भवनहं, न विस्मरामीति विशालसौख्यभाक् ।।' इति पाठा० ।। ६. 'तदा भवेत् साधुवचोऽर्थसत्यता ।' इति पाठा० ।।