________________
सर्गः - ६
२४३ एवं भवांश्चेद् विदधाति, तेन',
कृतज्ञताहानिमिवेह लोके । यदावयोः सङ्गतमस्ति तस्य,
निदानभूतो हित एव चाऽयम् ।। १४१ ।। मुञ्चेद् भवांश्चेत् सुयशोऽत्र लोके
भवेदखण्डं शरदिन्दुशुभ्रम् । एतेऽपि शिक्षामधिगम्य चाऽतः,
___ परं विदध्युर्न कदाऽपि चेत्थम् ।। १४२ ॥ अन्यच्च पुत्र्यास्तव कर्मदोषो,
विजृम्भते, नाऽत्र च दोष एषाम् । इमेऽतिदीना इव भान्ति भीताः५,
___पुत्रश्च कुष्ठेन रुजाभिभूतः ।। १४३ ।। प्रसीद चैतेषु दयस्व तस्मात्,
क्षमस्व दोषान्, परिमुञ्च बन्धात्' । कथं विलुम्पामि वचोऽस्य, चैवं,
विमृश्य राजाऽप्युररीचकार ।। १४४ ।। सुगन्धितैलं परिलिप्य चैता
नस्नापयच्चन्द्रनृपस्तदैव । कौशेयवस्त्रं वरभूषणं च,
दत्त्वा सुभोज्यं व्यतरच्च तेभ्यः ।। १४५ ।। १. किं स्यान्' इति पाठा० ।। २. 'महाजनानां सदसद्विचारः ।' इति पाठा० ।। ३.'तस्या-ऽयं निश्चितो हेतुरतो न वध्यः ।।' इति पाठा० ।। ४. 'परं विदध्युर्नहि तादृशं हि' इति पाठा० ।। ५. 'किञ्चातिदीना इव भान्ति चाऽमी' इति पाठा० ।। ६. 'एतेषु राजन् ! दयया प्रसीद' इति पाठा० ।। ७. 'चैतान् ।' इति पाठा ।।