________________
२४४
श्रीप्रेमला पत्युरमोघसत्त्व
विख्यापनायै सहसाऽऽजगाम ।
प्रक्षाल्य तत्पादयुगं तदेव,
जलं समादाय विशालसत्त्वा ।। १४६ ।।
कुष्ठापनुत्त्यै कनकध्वजस्य,
सिषेच देहे नृपनन्दिनी' सा ।
सद्यो विनाशं प्रययौ तदीयं,
कुष्ठं सुरम्याकृतिरप्यभूत् सः ।। १४७ ।। युग्मम्
दिवोऽथ देवा जयशब्दमुच्चै
रुच्चार्य पुष्पं ववृषुश्च चन्द्रे ।
तदाऽस्य पादौ परिगृह्य भक्त्या,
चन्द्रराजचरित्रम्
ननाम सद्यः कनकध्वजोऽपि ।। १४८ ॥
'धन्योऽसि राजंश्चरणोदकस्य,
वक्तुं समर्थास्तव के प्रभावम् ? ।
न देवता कुष्ठरुजाभिभूतं,
मां स्वस्थमाधात् परमाचरस्त्वम्' ।। १४९ ।।
सम्मान्य तांश्चन्द्रनृपो मुमोच,
ते तं नमस्कृत्य ययुः सुखेन ।
श्रीसिंहलेशः स्वपुरं समेत्य,
सुखेन चाऽस्थात् स्वसुतेन सार्द्धम् ।। १५० ।
१. 'नृपनन्दनी' इति पाठा० ।। २. 'चन्द्रस्य' इति पाठा० ।।