________________
२४२
"रे पाप ! कस्मात् तनयां ममापा
वादीरमन्तुं शुचिशीलदीप्ताम् ? |
तदप्रियं त्वं व्यदधा दुरन्तं,
प्राप्ताऽसि यस्याऽद्य फलं कटु द्राक् ।। १३६ ।।
पुत्र्या महोग्रं प्रविधाय दुःखं,
त्वदाननोद्वीक्षणमप्यभद्र
न लज्जसे त्वं कथमत्र पापिन् ! |
हेतुः किलैतद्दुरितप्रभावात्' ।। १३७ ।।
प्रासोष्ट या त्वां जननी च तस्या,
चन्द्रराजचरित्रम्
धिक्कार आस्तां न कथं तदैव ।
मृतोऽभवः स्त्रीजनदुःखदायी ?,
धिक् त्वामि "ति न्यक्कृतवान् नृपालः ।। १३८ ॥
आह्वाय्य चाण्डालमरं च सर्वान्,
राजा न्यदिक्षत् परिहिंसितुं तान् ।
तस्मिन् क्षणे चन्द्रनृपः समागात्,
तेषां वधादेशमवेत्य विज्ञः ।। १३९ ।।
"महाशया नैव परस्य रक्षां,
स्वप्राणभङ्गेऽपि त्यजन्ति जातु ।
राजन् ! वधं नो शरणागताना
मौचित्यमेतीह कदाऽप्यरीणाम् ।। १४० ।।
१. 'रे पाप ! कस्माद् दुहितुर्मम त्वं, क्लेशं व्यधा निष्फलमेवमुग्रम् । दुःखं मम त्वं व्यदधास्तदुग्रं, सुप्तं हरिं बोधितवानसि त्वम् ।।' इति पाठा० ।। २. 'त्वदाननं वीक्ष्य महाजनो हि, स्मेराननः किं भविता न दुष्ट ! ।।' इति पाठा० ।। ३. 'हि' इति पाठा० ।। ४. ' आह्वाय्य चाण्डालममुं तदैव' इति पाठा० ।। ५. 'संश्रुत्य तेषां वधमाशु विज्ञः ।।' इति पाठा० ।। ६. ' - गतानां करोति विद्वान् क्वचिदप्यरीणाम् ।।' इति पाठा० ||