________________
सर्गः ६
उवाच तं सिंहलभूपपुत्रं,
-
कुष्ठाभिभूतं प्रबलप्रकोपात् ।
" रे रे त्वयाऽहं छलितो नितान्तं,
त्वद्वाक्यतोऽहं यदि कन्यकां स्वाम् ।। १३१ ।।
अमारयिष्यं वद केन तस्मा
दमोचयिष्ये दुरितात् कलङ्कात् ।
धन्यः प्रधानः प्रनिवार्य यो मां,
सुतामरक्षत् सुयशश्च विद्वान्' ।। १३२ ।। युग्मम्
स्वयं च कुष्ठी विषकन्यकां मे,
सुतामवोचत् प्रबलच्छलेन ।
तदा सुताया वचनं मया नो,
प्रत्यायि तन्मोहवशेन किञ्चित् ॥ १३३ ॥
ज्ञातं मया सम्प्रति हिंसकस्य,
सर्वच्छलं वञ्चयितुं कृतं माम् ।
अद्याऽस्य पापं प्रकटीबभूव,
२४१
चन्द्रोदये वाऽस्तु हता तमिस्त्रा' ? ।। १३४ ।।
स्मृत्वा पुरा तत्कृतमप्रियं यत्,
कृतं न केनाऽपि श्रुतं न दृष्टम् ' ।
उवाच तं सिंहल भूपतिं स,
क्रोधारुणाक्षो मकरध्वजोऽथ° ।। १३५ ।।
१. 'मे हि ।।' इति पाठा० ।। २. 'अयं' इति पाठा० ।। ३. 'प्रामायि' इति पाठा० ।। ४. 'सर्वच्छलं मां प्रति दुर्णयत्वम् ।' इति पाठा० ।। ५. 'चन्द्रोदये जातु न गोपितं च ।।' इति पाठा० ।। ६. कस्याऽपि पापं भवतीह गुप्तं, ज्ञातं मया चन्द्रत एव सर्वम् ।।' इति पाठा० ।। ७. 'हि' इति पाठा० ।।