________________
२४०
चन्द्रराजचरित्रम् आरुह्य चूतस्य महीरुहं सा,
विमानकल्पं नभसा समागात् ।। १२५ ॥ तत्कोटरे गुप्ततया निषण्णः,
क्रमेण चाऽऽगां नगरे तवाऽहम् । तस्यां निशायां तव पुत्रिकाया,
आसीद् विवाहस्य महोत्सवोऽत्र ।। १२६ ॥ श्रीसिंहलेशस्य सुतेन साड़,
तन्मङ्गलं भावि ममाऽपि तस्य । मन्त्री जगाद प्रबलच्छलेन,
स हिंसकाख्योऽनुगतार्थनामा' ।। १२७ ॥ अनेक संप्रार्थनया तदाऽहं,
तव व्यवाक्षं तनयां छलेन । ततोऽगमं तं परिरुह्य वृक्ष
माभापुरं द्राग् जननीसमेतः ।। १२८ ॥ मदीयवृत्तं सकलं विमाता,
विज्ञाय मां ताम्रशिखं व्यधत्त । श्रीसूर्यकुण्डस्य प्रभावतोऽहं,
पुनर्नरत्वं समवापमत्र" ।। १२९ ।। इत्थं स चन्द्रस्य निशम्य वृत्त
माश्चर्यमापन्नृपतिस्तदानीम् । आनाय्य काराभवनात् तदैव,
पञ्चाऽपि तान् क्रोधकषायचित्तः ॥ १३० ।।
१. 'श्रीहिंसकाख्यः स यथार्थनामा ।।' इति पाठा० ।।