________________
२३६
पश्चात् समुत्तीर्य गिरेर्गजस्य,
पृष्ठं स चन्द्रो नृप आरुरोह ।। १०४ ।।
अनेकवाद्येषु नदत्सु' गीतं,
गायत्सु बन्दिप्रवरेषु तत्र ।
श्रीप्रेमला स्यन्दनमध्यतिष्ठत् ।। १०५ ।।
हर्षातिरेकात् पुलकाञ्चिताङ्गी',
अनेकसामन्तसमन्वितोऽसौ,
गन्तुं सुरेशायतनं ध्रुवं तद्,
चन्द्रराजचरित्रम्
ततः प्रयातो विमलापुरं द्राक् ।
ढक्कानिनादैर्भरितः सुराध्वा ।। १०६ ।।
षारवैर्वाजिवरस्य मत्त
आलोकशब्दैरपि बन्दिगीत
मतङ्गजानां परिबृंहितेन ।
दिगन्तरालं स्थगितं प्रयाणे ।। १०७ ।।
नृपद्वयस्योपरि शोभते स्म,
छत्रद्वयं चन्दिरकान्तिरम्यम् ।
दिवाऽपि चन्द्रद्वितयभ्रमेण,
विलोकितं कौतुकतो जनौघैः ।। १०८ ।।
१. 'स्कन्धं' इति पाठा० ।। २. 'वदत्सु' इति पाठा० ।। ३. 'भूपोऽनुरूपं गजमारुरोह' इति पाठा० ।। अत्र 'मकरध्वज:' इति टि० ।। ४. 'चचाल तस्माद् विमलापुरं हि । ढक्काध्वनिर्व्याप्य नभःप्रदेशं, जगाम किं नो सुरराजसद्म ? || ' इति पाठा० ।। ५. ‘आलोकशब्दैर्बधिरीबभूव, गव्यूतिमात्रं किल तत्प्रयाणे ।।' इति पाठा० ।। ६. 'दिवाऽपि चन्द्रद्वयराजमानं, नभो बभूवेव विशालशोभम् ।।' इति
पाठा० ।।