________________
सर्गः ६
मनुष्यरूपं प्रतिलभ्य भूयः,
स जात इत्येव पितः ! प्रमन्ये ।। ९९ ।।
जामातरं पश्य विशेषतस्त्वं,
समानरूपो भुवनेऽस्त्यनेकः ।
परन्तु नैतत्प्रतिमोऽस्ति कश्चिद्,
,
दृष्टः श्रुतो वा पुरुषः सुरूपः " ।। १०० ।
इत्थं सुताया वचनं निशम्य,
निमेषशून्येन विलोचनेन,
नितान्तहर्षं लभते स्म राजा ।
विलोकयामास स चन्द्रभूपम् ।। १०१ ॥
जामातरं वीक्ष्य स चन्द्रभूपं,
समालिलिङ्ग क्षितिपाल उच्चैः 1
सहागतः सैन्यगणोऽपि हर्षाद्',
२३५
ननाम नम्रो निजगाद भक्त्या ।। १०२ ।।
'त्वं कुक्कुटोsपि क्षितिपो मदीय,
इत्येव मत्वा त्वयका सहैव ।
समागता 'स्तद्द्द्विनयेन याचे,
न नः कदाचित् त्यज सेवमानान् ।। १०३ ॥
नतो नटेनाऽपि मुहः सुभक्त्या,
सुकीर्तिसङ्कीर्तनकारकेण ।
१. 'प्रमेने' इति पाठा० ।। २. 'जगत्त्रये तात ! पुमान् सुरूपः ।।' इति पाठा० ।। ३. 'प्रेम्णाऽथ सामन्तगणोऽपि चन्द्रं ' इति पाठा० ।। ४. ' - इत्येव कृत्वा भवता समं हि । समागतोऽहं विनयेन याचे, न मां कदाचित् त्यज हे महीप ! ।।' इति पाठा० ।। ५. 'नटोऽपि चन्द्रं प्रणनाम कीर्तिं जगौ सुभक्त्या मधुरस्वरेण ।' इति पाठा० ।।