________________
२३४
आनाय्य राजा नटराजमूचे,
'तव प्रसादाच्चरणायुधः सः ।
जातोऽद्य चन्द्रो न तवोपकार
स्याऽऽनृण्यमस्याऽयुतजन्मभिः स्यात्' ।। ९४ ॥
चन्द्रस्य सैन्यं सकलं स्वभर्तु
अमन्दमानन्दमयान्मुहुश्च,
ध्वजं बबन्धुर्नगरस्य मार्गे,
जयं जगौ चन्द्रनृपस्य तारम्' ।। ९५ ।।
चन्द्रराजचरित्रम्
सामन्तचक्रेण विराजमानो,
महोदयं तच्छ्शुरान्निशम्य ।
सुगन्धितोयं सिषिचुर्जनौघाः २ ।
गत्वा प्रभुं तत्र नमश्चकार,
नृपो ययौ चन्द्रनृपेक्षणाय ।। ९६ ।।
चन्द्रेण पश्चान्मिलति स्म भूपः ।
श्रीप्रेमला द्राक् पितरौ प्रणम्य,
जगाद शालीनतयाऽतिनम्रा ।। ९७ ।।
'तव प्रसादान्मम जीवितेशो
ऽधुना पितः ! सम्मिलितो महीप ! । आभापुरेशो ननु वीरसेन
राजस्य पुत्रोऽयमिति प्रविद्धि ।। ९८ ।।
श्रीसूर्यकुण्डस्य गुरुप्रभावात्,
तिर्यक्स्वरूपं परिमुच्य सद्यः ।
१. 'आनन्द एषां हृदये ममौ नो, तथा मुदं प्रापुरदीनसत्त्वाः । । ' इति पाठा० ।। २. 'सिषिचुः समन्तात्' इति पाठा० ।। ३. 'जल -' इति पाठा० ।।