________________
सर्गः
६
एवं प्रभोः स्तोत्रशतेन राजा,
-
जायासहायः स्तवनं चकार ।
प्रदक्षिणं चैत्यवरस्य चक्रे,
प्रमादमेतीह जनः शुभे कः ? ।। ८९ ।।
इतश्च काचिन्मकरध्वजाय,
विज्ञापयामास जवाद् भुजिष्या ।
'श्रीसूर्यकुण्डस्य प्रभावतोऽस्य',
स कुक्कुटश्चन्द्रनृपोऽद्य जातः " ।। ९० ।।
आश्चर्यभूतं स निशम्य तस्या,
वचोऽतिहर्षं लभते स्म राजा ।
ददौ तथाऽस्यै परितुष्टिदानं,
न याच्यमस्याः कमपीह शिष्टम् ।। ९१ ॥
'स कुक्कुटश्चन्द्रनृपो बभूवे'
त्येवं समग्रे नगरेऽप्रथिष्ट ।
संश्रुत्य सर्वे तुतुषुर्जना द्राग्,
२३३
श्रीप्रेमलाया जननी पिता च,
कदम्बपुष्पप्रतिमः प्रहर्षाद्,
द्रष्टुं समागुर्नृपमन्दिरं ते ।। ९२ ।।
जामातुरेवं परिलभ्य वृत्तम् ।
बभूव सामात्यनृपस्तदानीम् ।। ९३ ।।
१. ‘विवाहकाले वरवत् कृशानोः ।।' इति पाठा० ।। २. 'दासी' इति टि० ।। ३. 'प्रभावतोऽभूत्' इति पाठा० ।। ४. 'स कुक्कुटश्चन्द्र इति प्रपद्यः (प्रजात:पाठा० ) ।।' इति पाठा० ।। ५. 'वित्तं तथाऽस्यै प्रददौ महीपः, साक्षाद् रमाऽभूत् खलु तेन साऽपि ।।' इति पाठा० ।।