________________
सर्गः
अतोऽहमस्यैव पथाऽद्य गत्वा,
प्रेम्णः विधास्ये नचिरेण निष्क्रयम्' ।
इति प्रपातो विदधेऽथ कुण्डे,
तयाऽपि तत्प्रेमरसाऽऽप्लुतत्वात्' ।। ७८ ।।
जग्राह तं कुक्कुटराजमेषा,
पद्भ्यां पतत्रद्वितयेन चञ्चवा,
तदेतयोः कर्षविकषयोर्द्राक्,
तलंगता कुण्डवरस्य तस्य ।
निघ्नन्तमप्यात्मविमोक्षहेतोः * ।। ७९ ।
खगत्वदानेऽधिकृतं सुसूक्ष्मम् ।
कुण्डानुभावात् त्रुटति स्म सूत्रम् ॥ ८० ॥
अलक्ष्यमन्यैर्जननीनिबद्धं,
तदैव सोऽभूत् कृकवाकुरूपं,
त्यक्त्वा मनुष्यो नृपराजचन्द्रः ।
तौ दम्पती शासनदेवता द्राक्,
२३१
कुण्डात् समुत्तारयति स्म तस्मात् ।। ८१ ।।
कुण्डाद् बहिर्भूय निजं पतिं तं,
अमन्दमानन्दमम् प्रयातौ,
श्रीप्रेमला ज्ञातवती तदैव ।
जाया - पती वीक्ष्य परस्परं तौ ।। ८२ ।।
तीर्थस्थिता देवजनाः समन्तात्,
पुष्पस्य वृष्टिं गगनादकार्षुः ।
१. 'पथा च' इति पाठा० ।। २. 'प्रेम्णः प्रतीकारमहो विधास्ये ।' इति पाठा० ।। ३. 'हा प्रेमरसेन सार्द्धम्' इति पाठा० ।। ४. ' नटाधिराजस्य सुता जले हि ('भूपस्य पुत्री रभसा, तदा च' इति पाठा० ) । बबन्ध सूत्रं जननी विधातुं यत् कुक्कुटं तत् त्रुटति स्म तस्य ।।' इति पाठा० ।। ३. ' -त्' इति पाठा० ।।