________________
२३०
चन्द्रराजचरित्रम् कियत् सहिष्ये ननु दुःखमुग्रं,
न दीर्यते किं शतशो मनो मे ॥ ७२ ।। कस्याऽस्ति पत्नी नगरं च राज्यं,
कस्याऽस्ति योगोऽप्यथवा वियोगः । न कोऽपि कस्याऽपि भवेऽत्र नूनं,
सर्वेऽपि पूर्वार्जितकर्मभाजः ।।७३ ।। न मेऽधुना कोऽपि हितोऽस्ति लोके,
किं जन्मनाऽनेन ममाऽऽधिदेन ? । दुःखात् स्वकं त्रातुमतोऽद्य किं नो,
तीर्थे जहानीह निजं शरीरम् ?' ॥ ७४ ।। एवं विनिश्चित्य पपात कुण्डे,
स कुक्कुटः प्राणविमोचनाय । हा हेति सा राजसुता प्रकामं,
रोरुद्यमानाऽऽकुलिता बभूव ।। ७५ ।। 'रे किं त्वयेदं कृतमद्य निन्द्यं,
वक्ष्यामि किं नर्तकराजपुत्र्यै । किं वा च तातं स्वसखीजनं वा,
हा हा विधातः करुणा न तेऽस्ति ।। ७६ ॥ खगोऽपि महुःखनिवारकोऽयं,
न सह्यते किं विधिना प्रकामम् । कथं मुखं दर्शयिताऽस्मि गत्वा,
खगाधिराज प्रविनाश्य गेहम् ।। ७७ ।। १. विदीर्यते मे शतशोऽन्तरात्मा ।।' इति पाठा० ।। २. विरज्य सर्वं परिहृत्य प्राणान्, कथं न मोक्ष्येऽत्र सुपुण्यतीर्थे ।।' इति पाठा० ।। ३. '-मार्य !' इति पाठा० ।।