________________
सर्गः - ६
२२९ श्रीसूर्यकुण्डप्रविलोकनाय,
श्रीप्रेमलाऽगाद् विहगेन सार्द्धम् । प्रफुल्लपङ्केरुहशोभितान्तः,
सुनिर्मलाद्भिश्च खगं सिषिञ्च ।। ६७ ।। जलप्रभानिर्मलकान्तिरेष,
स्वर्वाहिनीं वीक्ष्य जहास किं वा । तथा विभाति स्म च पद्मषण्डे,
हंसादिनीडोद्भवराजितः सः ॥ ६८ ॥ तीरे निषण्णा नरराजपुत्री,
विलोकयमास तदीयशोभाम् । इतो विचारं कृकवाकुरेष
श्चकार तां वीक्ष्य विषण्णचेताः ।। ६९ ॥ "नटोऽपि मां भ्रामयति स्म देशं,
देशं तथाऽपि प्रशमं न यातम् । कर्माधुना मे कृकवाकुरूप
स्तिष्ठामि यत् पञ्जरमध्यवर्ती ॥ ७० ॥ पुनर्नरत्वं न हि जातु भावि,
प्रियासमीपे मम कुक्कुटस्य । रात्रिंदिवं तद्विरहं विलोक्य,
विदीर्यते मे हृदयं स्थितस्य ॥ ७१ ॥ व्यत्यैद् युवत्वं मम, कोऽप्युपायो,
___ नाऽद्याऽपि दृष्टौ नरतोपलब्धेः । १. 'सुनिर्मलं तं प्रविलोकते स्म ।। इति पाठा० ।। २. 'स्म बहुप्रकारं' इति पाठा० ।। ३. '-रुच्चै-' इति पाठा० ।। ४. 'हृदि स्वदुःखम् ।।' इति पाठा० ।।