________________
२२८
चन्द्रराजचरित्रम् अमूल्यरत्नं प्रददौ च तस्मै,
जगाम पार्श्व पितुराशु विज्ञा ।। ६१ ॥ पितुर्निदेशं परिलभ्य तीर्थं,
नीत्वा खगं स्तोकसखीसमेता । जगाम तं पञ्जरतस्तदा सा,
बहिश्चकाराऽऽशु खगं विधिज्ञा ।। ६२ ।। हस्ते तमादाय रुरोह शत्रु
अयं गिरीशं सहिता सखीभिः । तन्मौलिसंस्थं वृषभं जिनेन्द्र,
तं वन्दते भावनया समेता' । ।। ६३ ।। मुमुक्षु-देवेन्द्र-नराधिपाद्यैः,
संसेवितं शान्तिनिदानभूतम् । आलोक्य तीर्थं मनसि स्वजन्म,
बहु प्रमेने खलु कुक्कुटोऽसौ ।। ६४ ।। श्रीप्रेमला सर्वविधानयुक्तां',
तीर्थेशपूजां प्रविधाय सम्यक् । खगेन सार्द्ध प्रतिमन्दिरं सा,
गत्वा ननाम प्रबलस्वभक्त्या ।। ६५ ।। पश्चात् प्रियालस्य तले समागात्,
तत्रैव किञ्चित् समयं निनाय । आदाय पत्रं कृकवाकुरस्य,
विभूषयामास स्वचञ्चुमत्र ।। ६६ ।। १. 'सुभक्त्या ।।' इति पाठा० ।। २. '-पैश्च' इति पाठा० ।। ३. '-प्रदानकृत् तत् ।।' इति पाठा० ।। ४. '-विधानतो हि' इति पाठा० ।। ५. 'रायणवृक्षस्य' इति टि०' ।।