________________
२२७
सर्गः - ६ मां प्रीणयेद् रागरसेन, हाऽहं,
करोमि किं सम्प्रति दैवदग्धा"।। ५६ ।। सर्वं प्रियाया वचनं निशम्य,
__जगाद किञ्चिन्नहि कुक्कुटोऽसौ । स्वकर्मदोषं परिचिन्त्य धैर्य
मथाऽकरोच्चन्द्रनृपस्तदानीम् ।। ५७ ।। अथो नरेन्द्रस्य सुता यियासु
रभूत् सखीभिर्विमलाचलं सा । इतः समागाद् गणकः कुतश्चि
निरीक्ष्य तं सादरमाबभाषे ।। ५८ ।। 'विवाह्य योऽगान्नृपतिः प्रियः स,
कदा मिलिष्यत्यतिदुर्लभो मे । विचार्य सत्यं वद, ते यथेष्टं,
दास्ये धनं दैवविदेऽहमद्य' ।। ५९ ।। दैवज्ञवर्यः स जगाद 'चन्द्रो,
नृपोऽद्य किं वाऽपरवासरे वा । चेत् सोऽमिलिष्यत् त्वमपि प्रदानं,
तदा ह्यदास्यः, प्रथमं न देवि !' ।। ६० ।। दैवज्ञवाक्यैः प्रजहर्ष बाला,
तथा यथा मेघरवैर्मयूरी ।
तथा चा
१. 'तं विना हि ।।' इति पाठा० ।।, इतोऽग्रे- 'लजां परित्यज्य मया समं त्वं, संक्रीड पक्षिन् ! प्रणताऽस्मि पादे । मामन्यथा पञ्चशरोऽतिधृष्टो, नूनं प्रशोच्या गमयेद दशां हि ।।' इति निष्कासितः श्लोको दृश्यते ।। २. 'राजसुता जगाद।।' इति पाठा० ।। ३. 'मां व्यूह्य' इति पाठा० ।।