________________
२२६
इत्येवमुक्त्वा प्रययौ यदा, सा,
श्रीप्रेमला तं प्रविलोक्य शश्वत् ।
उच्छ्वासमुच्चैः परिगृह्य बाष्पं,
विमुच्य तारं विललाप चार्त्ता ।। ५२ ।।
"पते ! कथं मां स्मरसीह न त्वं,
कथं विना त्वां मम जीवनं स्यात् ।
कामस्य बाणानिव वारिधारा,
विमुञ्चति प्राप्तमदोऽम्बुदो यत्' ।। ५३ ।।
मेघावलिं श्यामतनुं विलोक्य,
चन्द्रराजचरित्रम्
द्विधेव चेतो मम जायते द्राक् ।
विद्युल्लता भीषयतेऽधुना मां,
कामस्य साक्षादसिधेनुकेव ॥ ५४ ॥
यथा यथाऽयं जलदः समन्तात्,
तथा तथा स्वां प्रमदां विमुच्य,
प्रगर्जति प्राणभयावहो ऽद्य ।
वषर्तुरेषोऽत्र न रोचते मे,
न लज्जते किं मम जीवितेशः ।। ५५ ॥
विना प्रियं स्याद्यदि सोऽद्य पार्श्वे ।
१. 'कादम्बिनीवाऽम्बु मुमोच तर्हि ( दीना - पाठा० ) ।। ' इति पाठा० ।। २. 'विमुञ्चतेऽसौ जलदः समन्तात् ।।' इति पाठा० ।। ३. 'द्विधेव बोभोति मदीयचित्तम् ।' इति पाठा० ।। ४. ' हि ।' इति पाठा० ।। ५. 'वल्लभो मे' इति पाठा० ।।