________________
सर्गः
-
६
सुदुष्करं, कामधिगम्य चाऽऽशां,
नेष्यामि कालं प्रियताम्रचूड ! ।। ४६ ।
त्वं तस्य गेहस्य विहङ्गमोऽस्मा
दुक्तं मया ते पुरतः स्वदुःखम् ।
त्वां वीक्ष्य चाऽऽश्वस्तमना वियोग,
इदं प्रियस्येत्यपि जीवनाय'" ।। ४७ ।।
इत्थं प्रियाया वचनं निशम्या
ऽपश्यत् तदीयं मुखमेव पक्षी ।
उवाच किञ्चिन्न हि केवलं सर,
दुःखं व्यधात् केवलमन्तरन्तः ३ ।। ४८ ।
इतः समागाच्छिवमालिकाऽपि,
हस्ते निधायाऽथ विहङ्गमं तम् ।
स्नेहेन पस्पर्श तदीयमङ्गं,
२२५
नवं नवं पक्वफलं व्यतारीत् ।। ४९ ।।
तस्मै तदीयां विमलां सुकीर्ति,
संमूर्च्छार्च्य दक्षाङ्गुलितः स्ववीणाम् । श्रीप्रेमलां कुक्कुटरागमुग्धा
मुवाच सा नर्तकराजपुत्री ।। ५० ।।
'आप्रावृषस्त्वं कृकवाकुमेतं,
यास्यामि यस्मिन् समये तदाह
संस्थापयस्व स्वपुरोऽतियत्नैः ।
मेतं ग्रहीष्यामि सकाशतस्ते' ।। ५१ ।।
१. 'त्वां वीक्ष्य दुःखं मम नाशमापत्, पतिं समीक्ष्यैव यथाऽङ्गनायाः ।।' इति पाठा० ।।
२. 'हि' इति पाठा० ।। ३. 'दुःखं विधते बहुलं स्वचित्ते ।।' इति पाठा० ।।