________________
२२४
चन्द्रराजचरित्रम् स्मरेत् कथं जातु स मामनन्य
चित्तामपि प्रोषितपुङ्गवो यत् ॥ ४१ ॥ छलं विधायाऽथ गतेन भा,
. नो दीयतेऽद्याऽवधि काऽपि वार्ता । किं वाऽपकारो मयका व्यधायि,
क्षान्तं न वा किं, मम कोऽत्र दोषः ? ॥ ४२ ॥ विवाह्य मह्यं व्यतरत् स कुष्ठि
जनं किमेतेन यशो नु लब्धम् ? । व्यधात् स मे जन्म निरर्थकं तत्,
___ वाऽऽपेऽमुनेयं परदुःखशिक्षा ।। ४३ ।। तस्मान्न चाऽन्यो भुवि निर्दयोऽस्ति,
यथा कृतं तेन तथा न कश्चित् । कस्याऽपि कुर्यात्, परिणीय जायां,
__कोऽन्यो विना तं परिमुञ्चतीह ? ।। ४४ ।। न कोऽपि तस्याऽस्ति सुहृद्य एतं,
सम्बोध्य सम्प्रेषयतीह विद्वान्ने ? । अस्यैव हेतोर्जनकोऽपि कष्ट
मत्यन्तमस्मभ्यमदात् तदानीम् ।। ४५ ।। स्नेहो जगत्यां न च दुर्लभोऽस्ति,
किन्त्वस्य सम्यक् परिपालनं यत् ।। १. 'प्राप्याऽपि च (तं-पाठा०) त्वां स्वपतिं (नैजपति-पाठा०) सुरत्नं, नाऽपालयं हा (न स्मोपभुञ्जे-पाठा०) खलु भिक्षुकीव ।।' इति पाठा० ।। २. 'कै-' इति पाठा० ।। ३. 'संबोध्य प्रास्थापयताऽत्र विद्वान् ।' इति पाठा० ।। ४. 'तदा हि।।' इति पाठा० ।। ५. 'हि' इति पाठा० ।।