________________
सर्गः - ६
२२३ राजानमूचेऽथ नटोऽपि गुह्य
___ 'माभानरेशं कृकवाकुमेतम् । जानीहि, नाऽयं विहगोऽस्ति, दातुं
मनोरथो मे न ततोऽस्ति, सत्यम्' ।। ३६ ॥ तथाऽपि कल्याणकृतेऽस्य तेऽपि,
__ महाग्रहेणाऽद्य ददामि राजन् !' । अथैनमूचे शिवमालिकाऽपि,
प्रेमाश्रुधारां बहु पातयन्ती ।। ३७ ।। 'अनेकभूपेन समं विरोधो,
जातः कृते मे खलु पक्षिणोऽस्य । प्रेम्णा सुतायाः प्रददे तवाऽद्य,
सा मे स्वसेव प्रतिभाति बाला ॥ ३८ ॥ सुखेन राजन् ! कृकवाकुमेतं,
गृहाण कल्याणपरम्परा स्यात् । आभानरेशं परिविद्धि चैतं,
त्वत्पुत्रिकाऽऽशा परिपूरिता स्यात्' ॥ ३९ ॥ सपञ्जरं तं परिगृह्य राजा,
___ श्रीप्रेमलायै प्रददौ स्वहस्तात् । साऽपि स्वभर्तारमिवाऽग्रहीत् तं,
हस्ते प्रतिष्ठाप्य जगाद चैवम् ॥ ४० ॥ "यस्याऽऽलयात् षोडशवर्षतो मे,
त्वमेव पक्षिन् ! समुपागतोऽसि । १. 'राजन् ('मर्म'-पाठा०)' इति पाठा० ।। २. 'मनो मदीयं न हि वाञ्छतीह ।।' इति पाठा० ।। ३. 'तेऽहम्' इति पाठा० ।। ४. 'प्रेम्णा सुतायास्तव भूप ! दद्मि' इति पाठा० ।। ५. 'भर्तुर्गृहात्' इति पाठा० ।।