________________
२२२
आज्ञां यदि त्वं वितरेस्तदाऽहं
स्थास्यामि, नो चेदिह नैव विज्ञे !" ।। ३० ।।
आकर्ण्य वाचं शिवमालिका सा,
खगस्य दुःखाद् भृशमारुरोद ।
बद्धाञ्जलिस्तं प्रजगाद 'राजन् !
तवाऽस्मि वृत्तादतिदुःखिताऽहम् ।। ३१ ।।
कृता यदद्याऽवधि नाथ ! किन्तु,
सेवाऽधुना सा सफला बभूव ।
वधूं निजां त्वं परिलभ्य सम्यक्,
संभुङ्क्ष्व सौख्यं नृपते ! चिराय' ।। ३२ ।।
श्रीप्रेमलाया भृशमाग्रहेण,
चन्द्रराजचरित्रम्
नटस्य वासं मकरध्वजोऽगात् ।
जिघृक्षुरेनं कृकवाकुमाराद्,
ददर्श तं नर्तकशेखरः सः ।। ३३ ।।
बद्धाञ्जलिः प्रेमपुरस्सरं स
नृपस्य सत्कारमपारमाधात् ।
राजा स्वपुत्र्या निखिलं च वृत्तं,
नटाधिराजाय जगाद दुःखात् ।। ३४ ।।
'दद्या अमुं चेत् कृकवाकुमद्य,
सञ्जीवनं यच्छसि मे सुतायाः ।
इत्येव मंस्ये न कदापि तेऽहं,
नटोपकारं खलु विस्मरामि' ।। ३५ ।।
१. 'वाक्या -' इति पाठा० ।। २. 'सेवा' इति पाठा० ।। ३. 'तवा -' इति
पाठा० ।।