________________
सर्गः
-
६
प्रेमाभिरामं वचनं निशम्य,
"सौजन्यसेवापरतादिमुख्यान्
जगाद तां ताम्रशिखोऽपि रम्यम् ।
गुणांस्त्वदीयान् नहि विस्मरामि ।। २५ ।।
तवोपकारस्य मनाक्तरां न,
प्रतिक्रियां कर्तुमधीश्वरः स्याम् ।
खगोऽपि तेऽहं परिवेद्मि सर्वं,
स्नेहं नाधीश्वरराजपुत्रि ! ।। २६ ।।
स्नेहोऽपि कार्यात् परिमुच्यते यत्',
दुःखं न चातो हृदये कुरुष्व ।
जानीहि या राजसुताऽस्ति सा मे,
पत्नीति तस्याः पतिरस्मि सुभ्रु ! ।। २७ ।।
वृत्तं तदीयं गदितुं समर्थो
ऽधुनाऽऽदितोऽहं न भवामि सर्वम् । मां कुक्कुटं यद् व्यदधाद् विमाता,
२२१
हेतुस्तदीयोऽयमवेहि बाले ! ।। २८ ।।
या त्वं विमातुः पुरतो विमोच्य,
सम्मेलनं कारयसीश्वरस्ते,
मामत्र चाऽऽनीय नृपाङ्गजायाः ।
करोतु कल्याणमहो सदैव ।। २९ ।।
अतोऽत्र वस्तुं नटराजपुत्रि !
मनो मदीयं भवतीति विद्धि ।
१. 'सौजन्यगाम्भीर्यसुधीरतादि - ' इति पाठा० ।। २. 'हि' इति पाठा० ।। ३. 'पतिरस्ति' इति पाठा० ।।