________________
२२०
स कुक्कुटायाऽकथयत् समग्रं,
राजोदितं तत्प्रणिशम्य पक्षी ।
अतीव हर्षं समवाप नेत्रा -
दानन्दबाष्पं प्रमुमोच धीरः ।। २० ।।
'श्रीप्रेमलायै यदि मां प्रदद्यात्,
तदा मदीया विपदन्तमेयात्' ।
विचार्य चैवं बहु चोत्सुकोऽसौ,
बभूव तज्ज्ञापयितुं पतत्त्री ।। २१ ।।
नटात्मजा तं प्रसमीक्ष्य चैवं,
चन्द्रराजचरित्रम्
जगाद बाष्पाकुलिताननश्रीः ।
'अये ! मया तेऽपकृतं किमेवं,
यन्मां परित्यक्तुमना असि त्वम् ।। २२ ।।
प्राणाधिकं वेद्मि, न ते कदापि,
सेवाविलम्बं प्रकरोमि नाथ ! |
सदैव मूर्ध्ना ननु पञ्जरं ते,
वहामि पक्षिन् ! नव वर्षतोऽहम् ।। २३ ।।
आज्ञां त्वदीयामधिगम्य तेऽहं,
मातुः सकाशात् समवाप्नवं त्वाम् ।
तर्हि कस्मात् स्वत एव मोक्ता,
"चिरात्कृतं प्रेम महानुभाव' !' ।। २४ ।।
१. 'तदा मदीया जनिरुत्तमा स्यात् ।' इति पाठा० ।। २. ' - तो हि' इति पाठा० ।। ३. 'मातुः सकाशादुपलभ्य राजन् ! ' इति पाठा० ।। ४. ' एतर्हि कस्मान्मम येन भङ्ग' इति पाठा० ।। ५. 'करोषि हा प्रेम महानुभाव ! ।। ' इति पाठा० ।।