________________
सर्गः - ६
२१९ 'अयं मिलेच्चेन्मम ताम्रचूड
स्तदा मदीया सफला जनिः स्यात् ।। १४ ॥ भर्तुर्ममाऽयं खग इत्यतोऽमुं',
प्राणादपि प्रेष्ठमहं प्रमन्ये। अतः पितस्तं परिदापय त्वं,
द्रुतं मनोमोदकरं नटेशात् ॥ १५ ॥ आनाय्य राजा नटराजमूचे,
'यः कुक्कुटस्ते सविधेऽस्ति सोऽस्याः । भर्तुर्गृहस्येति विशेषतो हि,
प्रेमाऽस्ति तस्योपरि नर्तकेश ! ॥ १६ ॥ दद्या इमं चेत् कृपया तदाऽसा
वतीव हृष्टा प्रभवेत् सुता मे । बलान याचे, तव चेन्मति:५ स्याद्,
ददस्व नो चेद् वद सत्यवाक्यम्' ॥ १७ ॥ नटोप्युवाचाऽवनिपालकं तं,
प्रभुर्ममाऽयं कृकवाकुरस्ति । आजीविका मे ननु जायतेऽतः, ..
ततोऽप्ययं दानविधेर्न पात्रम् ॥ १८ ॥ तथाऽपि पृच्छामि विहङ्गमं तं,
स चेदिहाऽऽगन्तुमना भवेच्चेत् । सुखेन दास्यामि तदाग्रहो मे,
नैवाऽस्ति राजन् ! लवतोऽपि कोऽपि' ॥ १९ ॥
१. 'मे' इति पाठा० ।। २. 'प्रेष्ठ इति' इति पाठा० ।। ३. 'पितर्मे' इति पाठा० ।। ४. 'खगं मनोहारिवचो नटाद्धि ।।' इति पाठा० ।। ५. 'चेत्कृपा' इति पाठा० ।। ६. 'नटोऽपि राजानमुवाच राजन् !' इति पाठा० ।। ७. 'कथं प्रदास्यामि खगाधिराजम् ।।' इति पाठा० ।।