________________
२१८
सर्वं बलं तस्य विराजतेऽदः,
एवं निशम्याऽस्य चरित्रमुग्रं,
'आज्ञा त्वदीया यदि भूमिनाथ !',
प्रभुर्मदीयोऽयमिति प्रतीहि " ।
नितान्तहर्षं समवाप राजा ।। ९ ।।
नटो जगौ 'प्रावृषमत्र सर्वे ।
संयापयिष्याम' इदं निशम्य,
तथाऽनुमेने मकरध्वजोऽपि ।। १० ।।
आज्ञां च लब्ध्वा मकरध्वजस्या
वात्सीन्मुदा नर्तकशेखरः सः ।
अथैकदा भूमिपतिः स्वपुत्री
चन्द्रराजचरित्रम्
माहूयतां सान्त्वयितुं जगाद ।। ११ ।।
'सत्यं तवोक्तं सकलं, परन्तु
दूरे वरीवर्ति स चन्द्रभूषः ।
दैवानुकूल्येन च' बोभवेत् ते,
तेनाऽत्र' सङ्गः कुरु पुत्रि ! धैर्यम् ।। १२ ।।
श्रद्धा यदि स्यात् तव पुत्रि ! तस्मा -
न्नटाधिराजात् कृकवाकुमाशु |
आनाय्य तुभ्यं प्रददामि तेन
क्रीडिष्यसि त्वं निरवद्यरूपे !' ।। १३ ।
पितुर्वचः सा प्रणिशम्य शीघ्रं,
महाग्रहात् स्वं पितरं जगाद ।
१. ‘प्रमन्ये ।' इति पाठा० ।। २. 'स्यात् तर्हि वर्षर्तुमिहैव सर्वे ।' इति पाठा० ।। ३. 'स' इति पाठा० ।। ४. ' - मानाय्य तस्या निजगाद हर्षात् ( साम्ना - पाठा० ) ।।' इति पाठा० ।। ५. 'हि' इति पाठा० ।। ६. 'बोभवीति' इति पाठा० ।। ७. 'चन्द्रस्य' इति पाठा० ।।